एषा वामनी अपि भारते वर्धमानः सस्यविशेषः । इयं वामनी अपि सस्यजन्यः आहारपदार्थः । एषा वामनी आङ्ग्लभाषायां Sweet Flag अथवा Calamus इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Acores calamus इति । एषा वामनी प्रायः औषधत्वेन एव उपयुज्यते सर्वत्र । अस्य वामनीसस्यस्य मूलं, भौमिकं काण्डं चापि औषधत्वेन उपयुज्यते । अन्यानि अङ्गानि तु न उपयुज्यन्ते । इयं वामनी गन्धद्रव्येषु यथा प्रमुखा तथैव औषधीयेषु सस्येषु अपि प्रमुखा एव । इयं वामनी जलबहुले प्रदेशे वर्धते सामान्यतयाय । हरिद्रा शुण्ठी इव मूलस्य खण्डात् नूतनं सस्यं वर्धयितुं शक्यते अस्याः वामन्याः अपि । इयं वामनी भूमौ अङ्कुरणादारभ्य ५ – ६ मासेषु उपयोगार्थं सिद्धा भवति । अस्य सस्यस्य मूलम् एव औषधत्वेन उपयुज्यते । प्रायः सर्वाभिः मातृभिः ज्ञातम् औषधीयं सस्यम् इदम् । इयं वामनी वचा उग्रगन्धा इत्यपि उच्यते ।
इयं वामनी आङ्ग्लभाषयाAcorus Calamus इति उच्यते । हिन्दीभाषया“बजे” इति, तेलुगुभाषया“वडज” इति, तमिळ्भाषायां “चबनम्” इति, मलयाळभाषया“बावाम्ब” इति, कन्नडभाषया“बजे” अथवा “अतिबजे” इति उच्यते ।
अस्याः वामन्याः प्रयोजनानि अनन्तानि सन्ति । इयं रुचौ कटुः तथा तिक्ता च । इयं वामनी उष्णं वर्धयति । वामनी बालानां माता इव । १.वामनी स्मरणशक्तिं वर्धयति, वचसः स्खलनं निवारयति च । २.इयं वामनी शिरोवेदनां, कीलवेदनाम्, उदरवेदनां, पीनसं चापि शमयति । ३.शिलायाः उपरि अस्याः वामन्याः मूलं सम्यक् उद्घर्ष्य मधुना सह सेव्यते चेत् बुद्धिशक्तिः, स्मरणशक्तिः च वर्धेते । ४.एषा वामनी रोगनिरोधकशक्तिं वर्धयति । वचसि स्पष्टताम् उत्पादयति चापि । ५.वामनी बालानां वयसः अनुगुणं १ मासस्य शिशुतः आरभ्य ५ वर्षाणां वयसः बालेभ्यः दातुं शक्यते । आरम्भस्तरे माषस्य गात्रस्य प्रमाणेन दातव्यम् । अनन्तरं क्रमेण वर्धयितुं शक्यते । ६.बालेषु ज्वरस्य तापः वर्धते चेत् वामनीं दुग्धेन दह वा उष्णजलेन सह वा उद्घर्ष्य ललाटे लेपनीयम् । ७.वामनी यदि अधिकप्रमाणेन सेव्यते तर्हि वमनं भवति । ८.कीलवेदनायाम् उदरवेदनायां सत्यां च वामनीम् उद्घर्ष्य तद्भागे लेपयितुम् अपि शक्या ।
एषा वामनी कटुरसयुक्ता । एषा उष्णगुणयुक्ता, तीक्ष्णा चापि ।