dcsimg

ब्राह्मी ( sanskrit )

tarjonnut wikipedia emerging_languages

एषा ब्राह्मी अपि भारते वर्धमानः कश्चन शाकविशेषः । एषा ब्राह्मी अपि एकविधं सस्यम् अस्ति । अतः एषा ब्राह्मी अपि सस्यजन्यः आहारपदार्थः । एषा ब्राह्मी आङ्ग्लभाषायां Centella asiatica इति उच्यते । अनया ब्राह्म्या उपसेचनं, ताक्रं, दाधिकम् इत्यादिकं निर्मीयते । ब्राह्मी औषधीयं सस्यम् अपि । अतः यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः ब्राह्म्याः उल्लेखः आयुर्वेदे बहुधा दृश्यते ।

कषायम्

ब्राह्मीपत्रैः निर्मितं कषायम् एव ब्राह्मीकषायम् । ब्राह्मीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

  1. "Bacopa monnieri information from NPGS/GRIN". www.ars-grin.gov. Retrieved 2008-03-13.

lisenssi
cc-by-sa-3.0
tekijänoikeus
Wikipedia authors and editors
alkuperäinen
käy lähteessä
kumppanisivusto
wikipedia emerging_languages