紫莖牛膝
(俗名:土牛膝、印度牛膝、台灣牛膝、擦鼻草、撮鼻草、牛掇草、鈍葉土牛膝、和牛膝、白啜鼻草、牛膝頭、菜鼻草、土牛七、倒扣草、倒扣筋、倒鉤草、雞掇草、粗毛牛膝、雞骨黃、昆明牛膝、戀愛草)
《中國高等植物資料庫全庫》. 中國科學院微生物研究所. [2009-02-24].
行政院原住民族委員會-原住民族藥用植物2009-p229
इदम् अपामार्गसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं सर्वासु अपि भूमिषु वर्धते । अस्य पुष्पं मयूरपुष्पम् इव भवति । इदम् अपामार्गसस्यं १/२ तः १ मीटर् यावत् उन्नतं भवति । अस्य सस्यस्य मूलं, बीजं, पर्णं च औषधत्वेन उपयुज्यन्ते । अनेन अपामार्गेण क्षारं तैलं चापि निर्मान्ति । अस्य क्षारं ५ ग्रैन्स् यावत्, चूर्णं चेत् ५ – २० ग्रैन्स् यावत् सेवनीयम् । अस्मिन् “पोट्याश्” इत्यंशः विशेषरूपेण अस्ति ।
इदम् अपामर्गसस्यम् आङ्ग्लभाषया “प्रिक्लिच्याप् फ्लवर्स्” इति उच्यते । हिन्दीभाषया“चिडि, चिडी, जेचिर, चिटा” इति च, तेलुगुभाषया “अपामार्ग” अथवा “उत्तरेन” इति, तमिळ्भाषया “நாயுருவி nāyuruvi नायुरुवि” इति, मलयाळभाषया“കടലാടി कटलाटि kaṭalāṭi ” इति, बेङ्गालीभाषया “अपाड्” इति, गुजरातिभाषया “आघोडो” इति, कन्नडभाषया “ ఉత్తరేణి उत्तरेणि uttarēṇi” इति च उच्यते ।
अस्य अपामर्गस्य रुचिः कटुः, तिक्तः च । इदम् उष्णवीर्ययुक्तं, लघु, वृक्षं चापि । इदम् अपामार्गं विपाके कटुरेव भवति । अस्य पञ्च अङ्गानि औषधत्वेन उपयुज्यन्ते।
१.कफप्रकृतियुक्तानां, कफजन्यरोगैः पीड्यमानानां च अपामार्गस्य उपयोगः हितकरः।
२.अस्य उपयोगः वातरोगाणां निमित्तम् अपि हितकरः भवति।
३. अस्य उपयोगेन शोथः, वेदना च अपगच्छति।
४.व्रणेषु अस्य रसं लेपयन्ति ।
५.वृश्चिकदंशने, सर्पदंशने च दशनस्थाने अस्य रसः एव उपयोगकारी ।
६.कर्णवेदनायां सत्याम् अस्य क्षारेण निर्मितं तैलम् उपयोक्तुं शक्यते ।
७.अस्य अपामार्गस्य उपयोगः अरुचौ, अग्निमान्द्ये, वमने, उदररोगेषु च भवति ।
८.अस्य अपामार्गस्य बीजेभ्यः निर्मितं पायसं “भस्मक” नामके रोगे विशेषतया उपयुज्यते । (भस्मकरोगः नाम अतिबुभुक्षा)
९.इदम् अपामार्गं रक्तहीनतां (पाण्डुरोगः), रक्तविकारं, ह्द्रोगम्, आमवातं च निवारयति ।